Anushasana Parva, Adhyaya 7, Verse 1
कर्मणां मे समस्तानां शुभानां भरतर्षभ
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
कर्मणां मे समस्तानां शुभानां भरतर्षभ
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता
येन येन शरीरेण यद्यत्कर्म करोति यः
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्
स्थण्डिले शयमानानां गृहाणि शयनानि च
चीरवल्कलसंवीते वासांस्याभरणानि च
वाहनासनयानानि योगात्मनि तपोधने
अग्नीनुपशयानस्य राजपौरुषमुच्यते
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत्
सततं चैकशायी यः स लभेतेप्सितां गतिम्
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः
वीरासनं वीरशय्यां वीरस्थानमुपासतः
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा
धनं लभेत दानेन मौनेनाज्ञां विशां पते
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम्
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः
मरुं साधयतो राज्यं नाकपृष्ठमनाशके
उपवासं च दीक्षां च अभिषेकं च पार्थिव
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते
मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात्
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति
अचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः
प्रीणाति मातरं येन पृथिवी तेन पूजिता
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम्
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा
यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे
यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि