Anushasana Parva, Adhyaya 6, Verse 1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत्
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत
पुरा वसिष्ठो भगवान्पितामहमपृच्छत
ततः पद्मोद्भवो राजन्देवदेवः पितामहः
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्
नाबीजं जायते किंचिन्न बीजेन विना फलम्
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम्
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः
सुकृते दुष्कृते वापि तादृशं लभते फलम्
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्
तथा पुरुषकारेण विना दैवं न सिध्यति
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्
तपसा रूपसौभाग्यं रत्नानि विविधानि च
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता
सर्वं पुरुषकारेण कृतेनेहोपपद्यते
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः
स एष भगवान्विष्णुः समुद्रे तप्यते तपः
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्
लोको दैवं समालम्ब्य उदासीनो भवेन्न तु
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते
वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना
न तथा मानुषे लोके भयमस्ति शुभाशुभे
यथा त्रिदशलोके हि भयमल्पेन जायते
कृतः पुरुषकारस्तु दैवमेवानुवर्तते
न दैवमकृते किंचित्कस्यचिद्दातुमर्हति
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि
कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया
ऋषीणां देवतानां च सदा भवति विग्रहः
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च
कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति
सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः