Mahabharata

Anushasana Parva, Adhyaya 5

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 1

आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च

श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 2

विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः

सविषं काण्डमादाय मृगयामास वै मृगम्

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 3

तत्र चामिषलुब्धेन लुब्धकेन महावने

अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 4

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा

महान्वनतरुर्विद्धो मृगं तत्र जिघांसता

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 5

स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः

उत्सृज्य फलपत्राणि पादपः शोषमागतः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 6

तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः

न जहाति शुको वासं तस्य भक्त्या वनस्पतेः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 7

निष्प्रचारो निराहारो ग्लानः शिथिलवागपि

कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 8

तमुदारं महासत्त्वमतिमानुषचेष्टितम्

समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 9

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः

तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 10

अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु

प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 11

ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः

अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 12

शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया

पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम्

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 13

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्

स्वागतं देवराजाय विज्ञातस्तपसा मया

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 14

ततो दशशताक्षेण साधु साध्विति भाषितम्

अहो विज्ञानमित्येवं तपसा पूजितस्ततः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 15

तमेवं शुभकर्माणं शुकं परमधार्मिकम्

विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 16

निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्

किमर्थं सेवसे वृक्षं यदा महदिदं वनम्

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 17

अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः

शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 18

गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्

विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम्

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 19

तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्

सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 20

अनतिक्रमणीयानि दैवतानि शचीपते

यत्राभवस्तत्र भवस्तन्निबोध सुराधिप

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 21

अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः

बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 22

किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ

आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 23

अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम्

अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 24

त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान्

अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 25

नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः

समर्थमुपजीव्येमं त्यजेयं कथमद्य वै

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 26

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः

शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 27

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः

आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम्

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 28

विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम्

प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 29

ततः फलानि पत्राणि शाखाश्चापि मनोरमाः

शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः

Mahabharata

Anushasana Parva, Adhyaya 5, Verse 30

शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह

आयुषोऽन्ते महाराज प्राप शक्रसलोकताम्