Mahabharata

Anushasana Parva, Adhyaya 4

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 1

श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा

ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 2

भरतस्यान्वये चैवाजमीढो नाम पार्थिवः

बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 3

तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः

दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 4

तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः

सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 5

वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः

कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 6

कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः

अपुत्रः स महाबाहुर्वनवासमुदावसत्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 7

कन्या जज्ञे सुता तस्य वने निवसतः सतः

नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 8

तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः

ऋचीक इति विख्यातो विपुले तपसि स्थितः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 9

स तां न प्रददौ तस्मै ऋचीकाय महात्मने

दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 10

प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः

शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 11

किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप

दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 12

चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्

एकतः श्यामकर्णानां सहस्रं देहि भार्गव

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 13

ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः

अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 14

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्

सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 15

तथेति वरुणो देव आदित्यो भृगुसत्तमम्

उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 16

ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम्

गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 17

अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम्

अश्वतीर्थं तदद्यापि मानवाः परिचक्षते

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 18

तत्तदा गाधये तात सहस्रं वाजिनां शुभम्

ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 19

ततः स विस्मितो राजा गाधिः शापभयेन च

ददौ तां समलंकृत्य कन्यां भृगुसुताय वै

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 20

जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः

सा च तं पतिमासाद्य परं हर्षमवाप ह

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 21

स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत

छन्दयामास चैवैनां वरेण वरवर्णिनीम्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 22

मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम्

अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 23

ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति

अपत्यस्य प्रदानेन समर्थः स महातपाः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 24

ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्

मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 25

गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः

जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 26

तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे

अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 27

ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम्

परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 28

चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते

त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 29

ततः सत्यवती हृष्टा मातरं प्रत्यभाषत

यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्

Mahabharata

Anushasana Parva, Adhyaya 4, Verse 30

तामुवाच ततो माता सुतां सत्यवतीं तदा

पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम