Anushasana Parva, Adhyaya 3, Verse 1
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप
कथं प्राप्तं महाराज क्षत्रियेण महात्मना
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप
कथं प्राप्तं महाराज क्षत्रियेण महात्मना
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः
हतं पुत्रशतं सद्यस्तपसा प्रपितामह
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः
मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः
महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः
स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः
विमोक्षितो महासत्रात्पशुतामभ्युपागतः
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः
नाभिवादयते ज्येष्ठं देवरातं नराधिप
पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः
त्रिशङ्कुर्बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम्
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम्
विश्वामित्रस्य विपुला नदी राजर्षिसेविता
कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा
आत्मानं मज्जयामास विपाशः पुनरुत्थितः
तदाप्रभृति पुण्या हि विपाशाभून्महानदी
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः
वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत्
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्
तस्यैतानि च कर्माणि तथान्यानि च कौरव
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्
एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि
मतंगस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे
स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात्