Anushasana Parva, Adhyaya 2, Verse 1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
श्रुतं मे महदाख्यानमिदं मतिमतां वर
Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
श्रुतं मे महदाख्यानमिदं मतिमतां वर
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप
कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः
सत्ये तपसि दाने च यस्य नित्यं रतं मनः
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः
महाभागो महातेजा महासत्त्वो महाबलः
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः
धर्मात्मा कोशवांश्चापि देवराज इवापरः
सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः
दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः
दुर्योधनो नाम महान्राजासीद्राजसत्तम
तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः
विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः
नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत्
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः
व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित्
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः
न चावमन्ता दाता च वेदवेदाङ्गपारगः
तं नर्मदा देवनदी पुण्या शीतजला शिवा
चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर
दुर्योधनसुता यादृगभवद्वरवर्णिनी
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्
भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम्
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः
ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः
भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम्
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ
नियता वाग्यताश्चैव पावकं शरणं ययुः
तान्दर्शयामास तदा भगवान्हव्यवाहनः
स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्