Mahabharata

Anushasana Parva, Adhyaya 2

Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 1

पितामह महाप्राज्ञ सर्वशास्त्रविशारद

श्रुतं मे महदाख्यानमिदं मतिमतां वर

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 2

भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप

कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 3

केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः

इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 4

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 5

मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः

तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 6

दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत

माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 7

दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः

सत्ये तपसि दाने च यस्य नित्यं रतं मनः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 8

मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः

धनुर्वेदे च वेदे च निरतो योऽभवत्सदा

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 9

मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः

महाभागो महातेजा महासत्त्वो महाबलः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 10

पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः

धर्मात्मा कोशवांश्चापि देवराज इवापरः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 11

सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः

दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 12

दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः

दुर्योधनो नाम महान्राजासीद्राजसत्तम

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 13

तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः

विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 14

रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः

नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत्

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 15

न तस्य विषये चाभूत्कृपणो नापि दुर्गतः

व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित्

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 16

सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः

धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 17

यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः

न चावमन्ता दाता च वेदवेदाङ्गपारगः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 18

तं नर्मदा देवनदी पुण्या शीतजला शिवा

चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 19

तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना

नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 20

तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर

दुर्योधनसुता यादृगभवद्वरवर्णिनी

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 21

तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्

भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम्

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 22

दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः

न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 23

ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः

ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 24

दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः

येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 25

न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः

भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम्

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 26

एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ

नियता वाग्यताश्चैव पावकं शरणं ययुः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 27

तान्दर्शयामास तदा भगवान्हव्यवाहनः

स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 28

ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्

वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 29

ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्

ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना

Mahabharata

Anushasana Parva, Adhyaya 2, Verse 30

ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्

अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्