Mahabharata

Shanti Parva, Adhyaya 351

Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 351, Verse 1

नैष देवोऽनिलसखो नासुरो न च पन्नगः

उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः

Mahabharata

Shanti Parva, Adhyaya 351, Verse 2

एष मूलफलाहारः शीर्णपर्णाशनस्तथा

अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः

Mahabharata

Shanti Parva, Adhyaya 351, Verse 3

ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः

स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः

Mahabharata

Shanti Parva, Adhyaya 351, Verse 4

असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः

सर्वभूतहिते युक्त एष विप्रो भुजंगम

Mahabharata

Shanti Parva, Adhyaya 351, Verse 5

न हि देवा न गन्धर्वा नासुरा न च पन्नगाः

प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 351, Verse 6

एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज

संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः

सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते