Shanti Parva, Adhyaya 349, Verse 1
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन्
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन्
तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः
भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि
इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम्
आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज
विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे
धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम्
पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम्
तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम्
स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम्
वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः
अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः
श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि
अहं स नागो विप्रर्षे यथा मां विन्दते भवान्
आज्ञापय यथा स्वैरं किं करोमि प्रियं तव
भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानिह
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज
संप्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि
वयं हि भवता सर्वे गुणक्रीता विशेषतः
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे
आगतोऽहं महाभाग तव दर्शनलालसः
कंचिदर्थमनर्थज्ञः प्रष्टुकामो भुजंगम
अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम्
वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह
प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः
तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान्