Mahabharata

Shanti Parva, Adhyaya 346

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 346, Verse 1

अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना

निराहारेण वसता दुःखितास्ते भुजंगमाः

Mahabharata

Shanti Parva, Adhyaya 346, Verse 2

सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः

भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति

Mahabharata

Shanti Parva, Adhyaya 346, Verse 3

तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम्

समासीनं निराहारं द्विजं जप्यपरायणम्

Mahabharata

Shanti Parva, Adhyaya 346, Verse 4

ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत्

ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः

Mahabharata

Shanti Parva, Adhyaya 346, Verse 5

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन

न चाभिलषसे किंचिदाहारं धर्मवत्सल

Mahabharata

Shanti Parva, Adhyaya 346, Verse 6

अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः

कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः

Mahabharata

Shanti Parva, Adhyaya 346, Verse 7

मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम

आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण

Mahabharata

Shanti Parva, Adhyaya 346, Verse 8

त्यक्ताहारेण भवता वने निवसता सता

बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात्

Mahabharata

Shanti Parva, Adhyaya 346, Verse 9

न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा

पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु

Mahabharata

Shanti Parva, Adhyaya 346, Verse 10

उपदेशेन युष्माकमाहारोऽयं मया वृतः

द्विरूनं दशरात्रं वै नागस्यागमनं प्रति

Mahabharata

Shanti Parva, Adhyaya 346, Verse 11

यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः

तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्

Mahabharata

Shanti Parva, Adhyaya 346, Verse 12

कर्तव्यो न च संतापो गम्यतां च यथागतम्

तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ

Mahabharata

Shanti Parva, Adhyaya 346, Verse 13

तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः

स्वमेव भवनं जग्मुरकृतार्था नरर्षभ