Shanti Parva, Adhyaya 345, Verse 1
स वनानि विचित्राणि तीर्थानि च सरांसि च
अभिगच्छन्क्रमेण स्म कंचिन्मुनिमुपस्थितः
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
स वनानि विचित्राणि तीर्थानि च सरांसि च
अभिगच्छन्क्रमेण स्म कंचिन्मुनिमुपस्थितः
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः
सोऽभिगम्य यथाख्यातं नागायतनमर्थवित्
प्रोक्तवानहमस्मीति भोःशब्दालंकृतं वचः
ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला
दर्शयामास तं विप्रं नागपत्नी पतिव्रता
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत्
विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा
द्रष्टुमिच्छामि भवति तं देवं नागमुत्तमम्
एतद्धि परमं कार्यमेतन्मे फलमीप्सितम्
अनेनार्थेन चास्म्यद्य संप्राप्तः पन्नगालयम्
आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम्
एतद्विदितमार्यस्य विवासकरणं मम
भर्तुर्भवतु किं चान्यत्क्रियतां तद्वदस्व मे
अनेन निश्चयेनाहं साध्वि संप्राप्तवानिह
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने
संप्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः
ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे
कालं परिमिताहारो यथोक्तं परिपालयन्
ततः स विप्रस्तां नागीं समाधाय पुनः पुनः
तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः