Shanti Parva, Adhyaya 344, Verse 1
अतिभारोद्यतस्यैव भारापनयनं महत्
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
अतिभारोद्यतस्यैव भारापनयनं महत्
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्
ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्
प्रह्रादयति मां वाक्यं भवता यदुदीरितम्
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च
प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः
बाढमेवं करिष्यामि यथा मां भाषते भवान्
इहेमां रजनीं साधो निवसस्व मया सह
प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन
उवास किल तां रात्रिं सह तेन द्विजेन वै
तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता
ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित्
यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः