Mahabharata

Shanti Parva, Adhyaya 343

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 343, Verse 1

उपदेशं तु ते विप्र करिष्येऽहं यथागमम्

गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु

Mahabharata

Shanti Parva, Adhyaya 343, Verse 2

यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम्

नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्

Mahabharata

Shanti Parva, Adhyaya 343, Verse 3

समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ

यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः

Mahabharata

Shanti Parva, Adhyaya 343, Verse 4

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्

पद्मनाभो महाभागः पद्म इत्येव विश्रुतः

Mahabharata

Shanti Parva, Adhyaya 343, Verse 5

स वाचा कर्मणा चैव मनसा च द्विजर्षभ

प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः

Mahabharata

Shanti Parva, Adhyaya 343, Verse 6

साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम्

विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति

Mahabharata

Shanti Parva, Adhyaya 343, Verse 7

तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम्

स ते परमकं धर्मं नमिथ्या दर्शयिष्यति

Mahabharata

Shanti Parva, Adhyaya 343, Verse 8

स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः

गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः

Mahabharata

Shanti Parva, Adhyaya 343, Verse 9

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः

तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च

Mahabharata

Shanti Parva, Adhyaya 343, Verse 10

यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः

सत्यवागनसूयुश्च शीलवानभिसंश्रितः

Mahabharata

Shanti Parva, Adhyaya 343, Verse 11

शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः

अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः