Shanti Parva, Adhyaya 342, Verse 1
समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ
मित्रतामभिपन्नस्त्वां किंचिद्वक्ष्यामि तच्छृणु
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ
मित्रतामभिपन्नस्त्वां किंचिद्वक्ष्यामि तच्छृणु
गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम्
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज
अहमात्मानमात्मस्थमेक एवात्मनि स्थितः
कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः
यावदेवानतीतं मे वयः पुत्रफलाश्रितम्
तावदिच्छामि पाथेयमादातुं पारलौकिकम्
अस्मिन्हि लोकसंताने परं पारमभीप्सतः
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः
समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि
दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणामुपरि प्रजानाम्
न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन्प्रार्थयतः परत्र
तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम्
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः
प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः
न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः
वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः
राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम्
गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम्
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः
अहिंसया परे स्वर्गं सत्येन च तथा परे
आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः
एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः
ममापि मतिराविग्ना मेघलेखेव वायुना