Shanti Parva, Adhyaya 341, Verse 1
आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः
सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः
धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः
अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः
ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते
कुले महति विख्याते विशिष्टां वृत्तिमास्थितः
स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः
कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत्
ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा
किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम्
इत्येवं खिद्यते नित्यं न च याति विनिश्चयम्
तस्यैवं खिद्यमानस्य धर्मं परममास्थितः
कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना
विश्रान्तं चैनमासीनमिदं वचनमब्रवीत्