Shanti Parva, Adhyaya 340, Verse 1
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया
यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम
अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा
सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा
स कदाचिन्महेष्वास देवराजालयं गतः
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत्
तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः
ब्रह्मर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ
यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम्
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत्
न ह्यस्त्यविदितं लोके देवर्षे तव किंचन
श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे
तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम्
यथा येन च कल्पेन स तस्मै द्विजसत्तमः
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु