Mahabharata

Shanti Parva, Adhyaya 339

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 339, Verse 1

शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः

अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते

Mahabharata

Shanti Parva, Adhyaya 339, Verse 2

न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम

सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः

Mahabharata

Shanti Parva, Adhyaya 339, Verse 3

अशरीरः शरीरेषु सर्वेषु निवसत्यसौ

वसन्नपि शरीरेषु न स लिप्यति कर्मभिः

Mahabharata

Shanti Parva, Adhyaya 339, Verse 4

ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः

सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 5

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः

एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 6

क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे

तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते

Mahabharata

Shanti Parva, Adhyaya 339, Verse 7

नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित्

सांख्येन विधिना चैव योगेन च यथाक्रमम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 8

चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम्

यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 9

तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः

महापुरुषशब्दं स बिभर्त्येकः सनातनः

Mahabharata

Shanti Parva, Adhyaya 339, Verse 10

एको हुताशो बहुधा समिध्यते; एकः सूर्यस्तपसां योनिरेका

एको वायुर्बहुधा वाति लोके; महोदधिश्चाम्भसां योनिरेकः

पुरुषश्चैको निर्गुणो विश्वरूप;स्तं निर्गुणं पुरुषं चाविशन्ति

Mahabharata

Shanti Parva, Adhyaya 339, Verse 11

हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्

उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः

Mahabharata

Shanti Parva, Adhyaya 339, Verse 12

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्

विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 13

एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः

एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः

Mahabharata

Shanti Parva, Adhyaya 339, Verse 14

तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः

स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा

Mahabharata

Shanti Parva, Adhyaya 339, Verse 15

कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते

ससप्तदशकेनापि राशिना युज्यते हि सः

एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 16

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ

मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 17

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च

यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च

Mahabharata

Shanti Parva, Adhyaya 339, Verse 18

यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम्

यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम्

Mahabharata

Shanti Parva, Adhyaya 339, Verse 19

देवाः सर्वे मुनयः साधु दान्ता;स्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते

अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज्जातस्त्वं च मत्तः प्रसूतः

मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र

Mahabharata

Shanti Parva, Adhyaya 339, Verse 20

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति

एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः

Mahabharata

Shanti Parva, Adhyaya 339, Verse 21

एतत्ते कथितं पुत्र यथावदनुपृच्छतः

सांख्यज्ञाने तथा योगे यथावदनुवर्णितम्