Shanti Parva, Adhyaya 335, Verse 1
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः
जन्म धर्मगृहे चैव नरनारायणात्मकम्
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः
जन्म धर्मगृहे चैव नरनारायणात्मकम्
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः
स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत्
हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा
रूपं प्रभावमहतामपूर्वं धीमतां वर
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम्
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने
एतन्नः संशयं ब्रह्मन्पुराणज्ञानसंभवम्
कथयस्वोत्तममते महापुरुषनिर्मितम्
पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम्
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्
जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः
उत्पन्नसंशयो राजा तमेव समचोदयत्
यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम्
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम्
यत्किंचिदिह लोके वै देहबद्धं विशां पते
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्
भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले
वायौ चाकाशसंलीने आकाशे च मनोनुगे
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च
तम एवाभवत्सर्वं न प्राज्ञायत किंचन
तमसो ब्रह्म संभूतं तमोमूलमृतात्मकम्
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमास्थितम्
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः
अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः
हिरण्यगर्भो भगवान्सर्वलोकपितामहः
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः
ददृशेऽद्भुतसंकाशे लोकानापोमयान्प्रभुः
सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत्
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ
तावपश्यत्स भगवाननादिनिधनोऽच्युतः
एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः
स तामसो मधुर्जातस्तदा नारायणाज्ञया
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः
तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम्
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्
ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान्
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत्
ततो वचनमीशानं प्राह वेदैर्विनाकृतः
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम्
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः
अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः
वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः