Mahabharata

Shanti Parva, Adhyaya 331

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 331, Verse 1

ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम्

यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः

Mahabharata

Shanti Parva, Adhyaya 331, Verse 2

इदं शतसहस्राद्धि भारताख्यानविस्तरात्

आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 3

नवनीतं यथा दध्नो मलयाच्चन्दनं यथा

आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा

Mahabharata

Shanti Parva, Adhyaya 331, Verse 4

समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम्

तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 5

स हीशो भगवान्देवः सर्वभूतात्मभावनः

अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम

Mahabharata

Shanti Parva, Adhyaya 331, Verse 6

यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः

ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम्

न ततोऽस्ति परं मन्ये पावनं दिवि चेह च

Mahabharata

Shanti Parva, Adhyaya 331, Verse 7

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्

न तथा फलदं चापि नारायणकथा यथा

Mahabharata

Shanti Parva, Adhyaya 331, Verse 8

सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्

हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 9

न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः

वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 10

न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु

त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा

Mahabharata

Shanti Parva, Adhyaya 331, Verse 11

धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः

हिताय श्रेयसे चैव येषामासीज्जनार्दनः

Mahabharata

Shanti Parva, Adhyaya 331, Verse 12

तपसापि न दृश्यो हि भगवाँल्लोकपूजितः

यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 13

तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः

न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम्

श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः

Mahabharata

Shanti Parva, Adhyaya 331, Verse 14

देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम्

यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 15

बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः

नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने

Mahabharata

Shanti Parva, Adhyaya 331, Verse 16

श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः

बदरीमाश्रमं प्राप्य समागम्य च तावृषी

Mahabharata

Shanti Parva, Adhyaya 331, Verse 17

कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः

श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि

Mahabharata

Shanti Parva, Adhyaya 331, Verse 18

किमब्रूतां महात्मानौ नरनारायणावृषी

तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 331, Verse 19

नमो भगवते तस्मै व्यासायामिततेजसे

यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्

Mahabharata

Shanti Parva, Adhyaya 331, Verse 20

प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्

निवृत्तो नारदो राजंस्तरसा मेरुमागमत्

हृदयेनोद्वहन्भारं यदुक्तं परमात्मना

Mahabharata

Shanti Parva, Adhyaya 331, Verse 21

पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत्

यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः

Mahabharata

Shanti Parva, Adhyaya 331, Verse 22

ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्

निपपात च खात्तूर्णं विशालां बदरीमनु

Mahabharata

Shanti Parva, Adhyaya 331, Verse 23

ततः स ददृशे देवौ पुराणावृषिसत्तमौ

तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ

Mahabharata

Shanti Parva, Adhyaya 331, Verse 24

तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात्

श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ

Mahabharata

Shanti Parva, Adhyaya 331, Verse 25

जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ

व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ

Mahabharata

Shanti Parva, Adhyaya 331, Verse 26

षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ

स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ

Mahabharata

Shanti Parva, Adhyaya 331, Verse 27

आतपत्रेण सदृशे शिरसी देवयोस्तयोः

एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ

Mahabharata

Shanti Parva, Adhyaya 331, Verse 28

तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः

स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा

Mahabharata

Shanti Parva, Adhyaya 331, Verse 29

बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ

सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः

Mahabharata

Shanti Parva, Adhyaya 331, Verse 30

श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ

इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम्

उपोपविविशे तत्र पीठे कुशमये शुभे