Mahabharata

Shanti Parva, Adhyaya 330

Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 330, Verse 1

सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः

बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 2

बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्

अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन

हृषीकेशोऽहमीशानो वरदो लोकभावनः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 3

इडोपहूतयोगेन हरे भागं क्रतुष्वहम्

वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 4

धाम सारो हि लोकानामृतं चैव विचारितम्

ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 5

नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्

गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 6

शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्

तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 7

यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्

शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 8

स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः

मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 9

न हि जातो न जायेऽहं न जनिष्ये कदाचन

क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 10

नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन

ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती

Mahabharata

Shanti Parva, Adhyaya 330, Verse 11

सच्चासच्चैव कौन्तेय मयावेशितमात्मनि

पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 12

सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्

जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनंजय

Mahabharata

Shanti Parva, Adhyaya 330, Verse 13

निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय

सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 14

कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्

कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन

Mahabharata

Shanti Parva, Adhyaya 330, Verse 15

मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना

वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम

Mahabharata

Shanti Parva, Adhyaya 330, Verse 16

निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते

तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा

Mahabharata

Shanti Parva, Adhyaya 330, Verse 17

पृथिवीनभसी चोभे विश्रुते विश्वलौकिके

तयोः संधारणार्थं हि मामधोक्षजमञ्जसा

Mahabharata

Shanti Parva, Adhyaya 330, Verse 18

निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः

ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 19

शब्द एकमतैरेष व्याहृतः परमर्षिभिः

नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 20

घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्

घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 21

त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः

पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते

Mahabharata

Shanti Parva, Adhyaya 330, Verse 22

एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते

आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते

Mahabharata

Shanti Parva, Adhyaya 330, Verse 23

वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत

नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 24

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते

तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 25

न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च

अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी

Mahabharata

Shanti Parva, Adhyaya 330, Verse 26

शुचीनि श्रवणीयानि शृणोमीह धनंजय

न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः

Mahabharata

Shanti Parva, Adhyaya 330, Verse 27

एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः

इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 28

तथैवासं त्रिककुदो वाराहं रूपमास्थितः

त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 29

विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः

स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्

Mahabharata

Shanti Parva, Adhyaya 330, Verse 30

विद्यासहायवन्तं मामादित्यस्थं सनातनम्

कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः