Mahabharata
Shanti Parva, Adhyaya 329, Verse 1
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ
एष मे संशयो जातस्तं छिन्धि मधुसूदन
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ
एष मे संशयो जातस्तं छिन्धि मधुसूदन
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम्
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये
नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने
अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः