Shanti Parva, Adhyaya 328, Verse 1
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम्
नामभिर्विविधैरेषां निरुक्तं भगवन्मम
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम्
नामभिर्विविधैरेषां निरुक्तं भगवन्मम
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः
शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा
भगवन्भूतभव्येश सर्वभूतसृगव्यय
लोकधाम जगन्नाथ लोकानामभयप्रद
यानि नामानि ते देव कीर्तितानि महर्षिभिः
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव
न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च
बहूनि मम नामानि कीर्तितानि महर्षिभिः
गौणानि तत्र नामानि कर्मजानि च कानिचित्
निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा
नमोऽतियशसे तस्मै देहिनां परमात्मने
नारायणाय विश्वाय निर्गुणाय गुणात्मने
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः
योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी
ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ
तदादेशितपन्थानौ सृष्टिसंहारकारकौ
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे
संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन
तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम्
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्
आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः
मया प्रमाणं हि कृतं लोकः समनुवर्तते
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम्
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु
न हि मे केनचिद्देयो वरः पाण्डवनन्दन
इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम्
पुत्रार्थमाराधितवानात्मानमहमात्मना
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु
ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम्
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्
भविष्यतां वर्ततां च भूतानां चैव भारत
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः
नमस्व हव्यदं विष्णुं तथा शरणदं नम
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम्
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः
अहमेव गतिस्तेषां निराशीःकर्मकारिणाम्