Shanti Parva, Adhyaya 327, Verse 1
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा
Containing 107 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः
प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम्
त्वया नारायणकथा श्रुता वै धर्मसंहिता
इमे सब्रह्मका लोकाः ससुरासुरमानवाः
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः
ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्
किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च
आकाशं जगती चैव ये च शेषा दिवौकसः
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्
ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम्
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः
दोषः कालपरीमाणे महानेष क्रियावताम्
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्
छिन्धीतिहासकथनात्परं कौतूहलं हि मे
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर
नातप्ततपसा ह्येष नावेदविदुषा तथा
नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्
वेदानध्यापयामास महाभारतपञ्चमान्
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत्
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः
पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह
मया हि सुमहत्तप्तं तपः परमदारुणम्
भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च
नारायणप्रसादेन क्षीरोदस्यानुकूलतः
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्
तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम्
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः
महापुरुषसंज्ञां स लभते स्वेन कर्मणा
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्
सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
अहंकारप्रसूतानि महाभूतानि भारत
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः
वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान्
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्