Mahabharata
Shanti Parva, Adhyaya 325, Verse 1
प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः
ददर्श तानेव नराञ्श्वेतांश्चन्द्रप्रभाञ्शुभान्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः
ददर्श तानेव नराञ्श्वेतांश्चन्द्रप्रभाञ्शुभान्
पूजयामास शिरसा मनसा तैश्च पूजितः
दिदृक्षुर्जप्यपरमः सर्वकृच्छ्रधरः स्थितः
भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर्महामुनिः
स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने