Mahabharata

Shanti Parva, Adhyaya 324

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 324, Verse 1

यदा भक्तो भगवत आसीद्राजा महावसुः

किमर्थं स परिभ्रष्टो विवेश विवरं भुवः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

ऋषीणां चैव संवादं त्रिदशानां च भारत

Mahabharata

Shanti Parva, Adhyaya 324, Verse 3

अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान्

स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 4

बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः

अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ

Mahabharata

Shanti Parva, Adhyaya 324, Verse 5

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः

इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 6

तेषां संवदतामेवमृषीणां विबुधैः सह

मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः

अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 7

तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम्

ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 8

यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः

कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 9

एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा

अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 10

भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः

एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 11

स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः

कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 12

धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप

देवानां तु पशुः पक्षो मतो राजन्वदस्व नः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 13

देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्

छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा

Mahabharata

Shanti Parva, Adhyaya 324, Verse 14

कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः

ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 15

सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत

अद्य प्रभृति ते राजन्नाकाशे विहता गतिः

अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि

Mahabharata

Shanti Parva, Adhyaya 324, Verse 16

ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा

अधो वै संबभूवाशु भूमेर्विवरगो नृपः

स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया

Mahabharata

Shanti Parva, Adhyaya 324, Verse 17

देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम्

चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 18

अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना

अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 19

इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः

ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा

Mahabharata

Shanti Parva, Adhyaya 324, Verse 20

ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम्

कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 21

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्

अवश्यं तपसा तेषां फलितव्यं नृपोत्तम

Mahabharata

Shanti Parva, Adhyaya 324, Verse 22

यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्

एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम

Mahabharata

Shanti Parva, Adhyaya 324, Verse 23

यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ

भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि

यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 24

प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत्

न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 25

वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च

स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति

Mahabharata

Shanti Parva, Adhyaya 324, Verse 26

एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः

गताः स्वभवनं देवा ऋषयश्च तपोधनाः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 27

चक्रे च सततं पूजां विष्वक्सेनाय भारत

जप्यं जगौ च सततं नारायणमुखोद्गतम्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 28

तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम

अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्

Mahabharata

Shanti Parva, Adhyaya 324, Verse 29

ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः

अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः

Mahabharata

Shanti Parva, Adhyaya 324, Verse 30

वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम्

गरुत्मन्तं महावेगमाबभाषे स्मयन्निव