Shanti Parva, Adhyaya 323, Verse 1
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते
बभूवुर्निर्वृता देवा जाते देवपुरोहिते
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते
बभूवुर्निर्वृता देवा जाते देवपुरोहिते
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम्
स राजा भावितः पूर्वं दैवेन विधिना वसुः
पालयामास पृथिवीं दिवमाखण्डलो यथा
तस्य यज्ञो महानासीदश्वमेधो महात्मनः
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह
प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः
ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः
आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः
संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा
बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत्
उवाच चोपरिचरं मया भागोऽयमुद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः
ततः स तं समुद्धूतं भूमिपालो महान्वसुः
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम्
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस्तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं त्विति
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः
ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत्
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्