Shanti Parva, Adhyaya 322, Verse 1
स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण
जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम्
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण
जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम्
यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा
तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्
वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम्
पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम्
गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समोऽस्मि नित्यम्
तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्यजस्रम्
एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येयमनन्तमीशम्
तत्पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता
गच्छेति तं नारदमुक्तवान्स; संपूजयित्वात्मविधिक्रियाभिः
ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चयित्वा तमृषिं पुराणम्
खमुत्पपातोत्तमवेगयुक्त;स्ततोऽधिमेरौ सहसा निलिल्ये
तत्रावतस्थे च मुनिर्मुहूर्त;मेकान्तमासाद्य गिरेः स शृङ्गे
आलोकयन्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम्
क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः
मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः
अतीन्द्रियाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च
श्वेताः पुमांसो गतसर्वपापा;श्चक्षुर्मुषः पापकृतां नराणाम्
वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः
छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः
षष्ट्या दन्तैर्युक्ताः शुक्लै;रष्टाभिर्दंष्ट्राभिर्ये
जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम्
भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः
वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा
ये विमुक्ता भवन्तीह नरा भरतसत्तम
तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम्
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम्
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ
सैषा तव हि वक्तव्या कथासारो हि स स्मृतः
राजोपरिचरो नाम बभूवाधिपतिर्भुवः
आखण्डलसखः ख्यातो भक्तो नारायणं हरिम्
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः
साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम्
पूजयामास देवेशं तच्छेषेण पितामहान्
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः
सर्वभावेन भक्तः स देवदेवं जनार्दनम्
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन
एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम्
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च
एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः
प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम्
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः
नानृता वाक्समभवन्मनो दुष्टं न चाभवत्
न च कायेन कृतवान्स पापं परमण्वपि
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः
सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः
एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम्
एकाग्रमनसो दान्ता मुनयः संयमे रताः
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्
लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः