Shanti Parva, Adhyaya 321, Verse 1
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः
देवतानां च को देवः पितॄणां च तथा पिता
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ
न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्नारायणस्य च
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत
कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे
नरो नारायणश्चैव हरिः कृष्णस्तथैव च
तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ
बदर्याश्रममासाद्य शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ
तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति
नूनं तयोरनुमते हृदि हृच्छयचोदितः
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम्
नारदः सुमहद्भूतं लोकान्सर्वानचीचरत्
तं देशमगमद्राजन्बदर्याश्रममाशुगः
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः
सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा
धर्मस्य कुलसंतानो महानेभिर्विवर्धितः
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे
स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ
एतौ हि परमं धाम कानयोराह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां नु यजतः पितॄन्वा कान्महामती
इति संचिन्त्य मनसा भक्त्या नारायणस्य ह
सहसा प्रादुरभवत्समीपे देवयोस्तदा
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः
तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना
नमस्कृत्वा महादेवमिदं वचनमब्रवीत्
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम्
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः
कं त्वद्य यजसे देवं पितरं कं न विद्महे
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम्
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया
तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते