Mahabharata

Shanti Parva, Adhyaya 320

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 320, Verse 1

इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः

प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 2

तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः

ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 3

ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते

ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 4

उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च

प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 5

द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः

निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह

Mahabharata

Shanti Parva, Adhyaya 320, Verse 6

न बभासे सहस्रांशुर्न जज्वाल च पावकः

ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा

Mahabharata

Shanti Parva, Adhyaya 320, Verse 7

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च

ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः

Mahabharata

Shanti Parva, Adhyaya 320, Verse 8

स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे

संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे

Mahabharata

Shanti Parva, Adhyaya 320, Verse 9

शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत

उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह

Mahabharata

Shanti Parva, Adhyaya 320, Verse 10

सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः

ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते

अदृश्येतां महाराज तदद्भुतमिवाभवत्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 11

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः

न च प्रतिजघानास्य स गतिं पर्वतोत्तमः

Mahabharata

Shanti Parva, Adhyaya 320, Verse 12

ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्

गन्धर्वाणामृषीणां च ये च शैलनिवासिनः

Mahabharata

Shanti Parva, Adhyaya 320, Verse 13

दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्

साधु साध्विति तत्रासीन्नादः सर्वत्र भारत

Mahabharata

Shanti Parva, Adhyaya 320, Verse 14

स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा

यक्षराक्षससंघैश्च विद्याधरगणैस्तथा

Mahabharata

Shanti Parva, Adhyaya 320, Verse 15

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः

आसीत्किल महाराज शुकाभिपतने तदा

Mahabharata

Shanti Parva, Adhyaya 320, Verse 16

ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्

शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 17

तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः

शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः

Mahabharata

Shanti Parva, Adhyaya 320, Verse 18

तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः

उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह

Mahabharata

Shanti Parva, Adhyaya 320, Verse 19

शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम्

दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा

Mahabharata

Shanti Parva, Adhyaya 320, Verse 20

महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः

निमेषान्तरमात्रेण शुकाभिपतनं ययौ

Mahabharata

Shanti Parva, Adhyaya 320, Verse 21

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्

शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा

Mahabharata

Shanti Parva, Adhyaya 320, Verse 22

ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा

स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै

Mahabharata

Shanti Parva, Adhyaya 320, Verse 23

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः

प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 24

तत एकाक्षरं नादं भो इत्येव समीरयन्

प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 25

ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्

गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति

Mahabharata

Shanti Parva, Adhyaya 320, Verse 26

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा

गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 27

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः

निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 28

ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः

आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः

Mahabharata

Shanti Parva, Adhyaya 320, Verse 29

जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे

वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम्

Mahabharata

Shanti Parva, Adhyaya 320, Verse 30

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा

सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह