Mahabharata

Shanti Parva, Adhyaya 319

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 319, Verse 1

गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत

समे देशे विविक्ते च निःशलाक उपाविशत्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 2

धारयामास चात्मानं यथाशास्त्रं महामुनिः

पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 3

ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते

पाणिपादं समाधाय विनीतवदुपाविशत्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 4

न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम्

यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे

Mahabharata

Shanti Parva, Adhyaya 319, Verse 5

स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम्

प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 6

स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये

महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 7

ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा

निवेदयामास तदा स्वं योगं परमर्षये

Mahabharata

Shanti Parva, Adhyaya 319, Verse 8

दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन

त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते

Mahabharata

Shanti Parva, Adhyaya 319, Verse 9

नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः

अभिवाद्य पुनर्योगमास्थायाकाशमाविशत्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 10

कैलासपृष्ठादुत्पत्य स पपात दिवं तदा

अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 11

तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्

ददृशुः सर्वभूतानि मनोमारुतरंहसम्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 12

व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन्

आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 13

तमेकमनसं यान्तमव्यग्रमकुतोभयम्

ददृशुः सर्वभूतानि जङ्गमानीतराणि च

Mahabharata

Shanti Parva, Adhyaya 319, Verse 14

यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा

पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 15

तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः

ऋषयश्चैव संसिद्धाः परं विस्मयमागताः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 16

अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः

अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते

Mahabharata

Shanti Parva, Adhyaya 319, Verse 17

ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः

भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत्

शब्देनाकाशमखिलं पूरयन्निव सर्वतः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 18

तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः

संभ्रान्तमनसो राजन्नासन्परमविस्मिताः

पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 19

दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम्

सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 20

ततः समतिचक्राम मलयं नाम पर्वतम्

उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते

ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 21

अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे

अचिरेणैव कालेन नभश्चरति चन्द्रवत्

पितृशुश्रूषया सिद्धिं संप्राप्तोऽयमनुत्तमाम्

Mahabharata

Shanti Parva, Adhyaya 319, Verse 22

पितृभक्तो दृढतपाः पितुः सुदयितः सुतः

अनन्यमनसा तेन कथं पित्रा विवर्जितः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 23

उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्

उदैक्षत दिशः सर्वा वचने गतमानसः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 24

सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्

आलोकयामास तदा सरांसि सरितस्तथा

Mahabharata

Shanti Parva, Adhyaya 319, Verse 25

ततो द्वैपायनसुतं बहुमानपुरःसरम्

कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 26

अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित्

पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै

Mahabharata

Shanti Parva, Adhyaya 319, Verse 27

ततः प्रतिवचो देयं सर्वैरेव समाहितैः

एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ

Mahabharata

Shanti Parva, Adhyaya 319, Verse 28

शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः

समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः

Mahabharata

Shanti Parva, Adhyaya 319, Verse 29

यथाज्ञापयसे विप्र बाढमेवं भविष्यति

ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्