Shanti Parva, Adhyaya 318, Verse 1
सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत्
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः
व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः
अवशस्य विनाशाय शरीरमपकृष्यते
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः
जातं मर्त्यं जरयति निमेषं नावतिष्ठते
सुखदुःखानि भूतानामजरो जरयन्नसौ
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च
अदृष्टपूर्वानादाय भावानपरिशङ्कितान्
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः
यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात्
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः
दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः
आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति
कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते
केषांचित्पुत्रकामानामनुसंतानमिच्छताम्
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः
दश मासान्परिधृता जायन्ते कुलपांसनाः
अपरे धनधान्यानि भोगांश्च पितृसंचितान्
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते
शीर्णं परशरीरेण निच्छवीकं शरीरिणम्
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम्
निर्दग्धं परदेहेन परदेहं चलाचलम्
विनश्यन्तं विनाशान्ते नावि नावमिवाहितम्
संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते
गर्भमूत्रपुरीषाणां स्वभावनियता गतिः
धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे
आगमेन सहान्येषां विनाश उपपद्यते
एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते
प्रजां च लभते कांचित्पुनर्द्वंद्वेषु मज्जति
शतस्य सहजातस्य सप्तमीं दशमीं दशाम्
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः
व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम्
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः