Mahabharata

Shanti Parva, Adhyaya 317

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 317, Verse 1

अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम्

निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 2

शोकस्थानसहस्राणि भयस्थानशतानि च

दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 3

तस्मादनिष्टनाशार्थमितिहासं निबोध मे

तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 4

अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च

मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 5

द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत्

ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 6

दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते

अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 7

नार्थो न धर्मो न यशो योऽतीतमनुशोचति

अप्यभावेन युज्येत तच्चास्य न निवर्तते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 8

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च

सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 9

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति

दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 10

नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम्

सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 11

दुःखोपघाते शारीरे मानसे वाप्युपस्थिते

यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 12

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्

चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते

Mahabharata

Shanti Parva, Adhyaya 317, Verse 13

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः

एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 14

अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः

आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 15

न जानपदिकं दुःखमेकः शोचितुमर्हति

अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 16

सुखाद्बहुतरं दुःखं जीविते नात्र संशयः

स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 17

परित्यजति यो दुःखं सुखं वाप्युभयं नरः

अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 18

दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः

दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 19

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः

अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 20

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 21

अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्

तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 22

निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति

स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 23

भूतेष्वभावं संचिन्त्य ये बुद्ध्वा तमसः परम्

न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 24

संचिन्वानकमेवैनं कामानामवितृप्तकम्

व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति

Mahabharata

Shanti Parva, Adhyaya 317, Verse 25

अथाप्युपायं संपश्येद्दुःखस्य परिमोक्षणे

अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्

Mahabharata

Shanti Parva, Adhyaya 317, Verse 26

शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च

नोपभोगात्परं किंचिद्धनिनो वाधनस्य वा

Mahabharata

Shanti Parva, Adhyaya 317, Verse 27

प्राक्संप्रयोगाद्भूतानां नास्ति दुःखमनामयम्

विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 28

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा

चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया

Mahabharata

Shanti Parva, Adhyaya 317, Verse 29

प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च

विचरेदसमुन्नद्धः स सुखी स च पण्डितः

Mahabharata

Shanti Parva, Adhyaya 317, Verse 30

अध्यात्मरतिरासीनो निरपेक्षो निरामिषः

आत्मनैव सहायेन यश्चरेत्स सुखी भवेत्