Mahabharata

Shanti Parva, Adhyaya 316

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 316, Verse 1

एतस्मिन्नन्तरे शून्ये नारदः समुपागमत्

शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 2

देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम्

अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 3

नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर

केन त्वां श्रेयसा तात योजयामीति हृष्टवत्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 4

नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत

अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 316, Verse 5

तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम्

सनत्कुमारो भगवानिदं वचनमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 6

नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 7

निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता

सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 8

मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति

नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 9

सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी

मोहजालावृतो दुःखमिह चामुत्र चाश्नुते

Mahabharata

Shanti Parva, Adhyaya 316, Verse 10

सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः

कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ

Mahabharata

Shanti Parva, Adhyaya 316, Verse 11

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्

विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः

Mahabharata

Shanti Parva, Adhyaya 316, Verse 12

आनृशंस्यं परो धर्मः क्षमा च परमं बलम्

आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 13

सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत्

यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम

Mahabharata

Shanti Parva, Adhyaya 316, Verse 14

सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः

येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः

Mahabharata

Shanti Parva, Adhyaya 316, Verse 15

इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह

असज्जमानः शान्तात्मा निर्विकारः समाहितः

Mahabharata

Shanti Parva, Adhyaya 316, Verse 16

आत्मभूतैरतद्भूतः सह चैव विनैव च

स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति

Mahabharata

Shanti Parva, Adhyaya 316, Verse 17

अदर्शनमसंस्पर्शस्तथासंभाषणं सदा

यस्य भूतैः सह मुने स श्रेयो विन्दते परम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 18

न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्

नेदं जन्म समासाद्य वैरं कुर्वीत केनचित्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 19

आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम्

एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः

Mahabharata

Shanti Parva, Adhyaya 316, Verse 20

परिग्रहं परित्यज्य भव तात जितेन्द्रियः

अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 21

निरामिषा न शोचन्ति त्यजेहामिषमात्मनः

परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे

Mahabharata

Shanti Parva, Adhyaya 316, Verse 22

तपोनित्येन दान्तेन मुनिना संयतात्मना

अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

Mahabharata

Shanti Parva, Adhyaya 316, Verse 23

गुणसङ्गेष्वनासक्त एकचर्यारतः सदा

ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 24

द्वंद्वारामेषु भूतेषु य एको रमते मुनिः

विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति

Mahabharata

Shanti Parva, Adhyaya 316, Verse 25

शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम्

अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः

Mahabharata

Shanti Parva, Adhyaya 316, Verse 26

तत्र मृत्युजरादुःखैः सततं समभिद्रुतः

संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे

Mahabharata

Shanti Parva, Adhyaya 316, Verse 27

अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः

अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे

Mahabharata

Shanti Parva, Adhyaya 316, Verse 28

संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः

कोशकारवदात्मानं वेष्टयन्नावबुध्यसे

Mahabharata

Shanti Parva, Adhyaya 316, Verse 29

अलं परिग्रहेणेह दोषवान्हि परिग्रहः

कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात्

Mahabharata

Shanti Parva, Adhyaya 316, Verse 30

पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः

सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव