Shanti Parva, Adhyaya 313, Verse 1
ततः स राजा जनको मन्त्रिभिः सह भारत
पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः स राजा जनको मन्त्रिभिः सह भारत
पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च
आसनं च पुरस्कृत्य रत्नानि विविधानि च
शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात्
स तदासनमादाय बहुरत्नविभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत्
पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत्
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः
गां चैव समनुज्ञाय राजानमनुमान्य च
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्
अनामयं च राजेन्द्र शुकः सानुचरस्य ह
अनुज्ञातः स तेनाथ निषसाद सहानुगः
उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः
किमागमनमित्येव पर्यपृच्छत पार्थिवः
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः
विदेहराजो याज्यो मे जनको नाम विश्रुतः
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः
प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम्
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु
कृतोपनयनस्तात भवेद्वेदपरायणः
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो
देवतानां पितॄणां चाप्यनृणश्चानसूयकः
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत्
अनसूयुर्यथान्यायमाहिताग्निस्तथैव च
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्
निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति
यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत्
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः
अनेन क्रमयोगेन बहुजातिषु कर्मणा
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते
भावितैः कारणैश्चायं बहुसंसारयोनिषु
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
संपश्यन्नोपलिप्येत जले वारिचरो यथा
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते
विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः