Shanti Parva, Adhyaya 309, Verse 1
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा
एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा
एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम्
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम्
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
सत्यमार्जवमक्रोधमनसूयां दमं तपः
अहिंसां चानृशंस्यं च विधिवत्परिपालय
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्
देवतातिथिशेषेण यात्रां प्राणस्य संश्रय
फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु
अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि
जीविते शिष्यमाणे च किमुत्थाय न धावसि
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः
अपथा गच्छतां तेषामनुयातापि पीड्यते
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम्
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै
अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः
सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः
धर्मनिःश्रेणिमास्थाय किंचित्किंचित्समारुह
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे
नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम्
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम्
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम्
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
मृत्युनाभ्याहते लोके जरया परिपीडिते
अमोघासु पतन्तीषु धर्मयानेन संतर
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा
निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः
संचिन्वानकमेवैनं कामानामवितृप्तकम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति
क्रमशः संचितशिखो धर्मबुद्धिमयो महान्
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्
संपतन्देहजालानि कदाचिदिह मानुषे
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय
ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्
ब्राह्मण्यं बहुभिरवाप्यते तपोभि;स्तल्लब्ध्वा न परिपणेन हेडितव्यम्
स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व
अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा
ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मासाङ्गो द्रवति वयोहयो नराणाम्
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम्
चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य
येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसंप्रयोगाः
क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः
राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान्
बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम्
श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः
नरां कदने रुधिरपा गुरुवचन;नुदमुपरतं विशसन्ति
मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात्
निवसति भृशमसुखं पितृविषय;विपिनमवगाह्य स पापः
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात्
उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा