Mahabharata

Shanti Parva, Adhyaya 308

Containing 191 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 308, Verse 1

अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम

कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे

Mahabharata

Shanti Parva, Adhyaya 308, Verse 2

संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः

परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 308, Verse 3

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

जनकस्य च संवादं सुलभायाश्च भारत

Mahabharata

Shanti Parva, Adhyaya 308, Verse 4

संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा

मैथिलो जनको नाम धर्मध्वज इति श्रुतः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 5

स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः

इन्द्रियाणि समाधाय शशास वसुधामिमाम्

Mahabharata

Shanti Parva, Adhyaya 308, Verse 6

तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्

लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर

Mahabharata

Shanti Parva, Adhyaya 308, Verse 7

अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता

महीमनुचचारैका सुलभा नाम भिक्षुकी

Mahabharata

Shanti Parva, Adhyaya 308, Verse 8

तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः

तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 9

सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया

दर्शने जातसंकल्पा जनकस्य बभूव ह

Mahabharata

Shanti Parva, Adhyaya 308, Verse 10

ततः सा विप्रहायाथ पूर्वरूपं हि योगतः

अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 308, Verse 11

चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी

विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा

Mahabharata

Shanti Parva, Adhyaya 308, Verse 12

सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम्

भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम्

Mahabharata

Shanti Parva, Adhyaya 308, Verse 13

राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा

केयं कस्य कुतो वेति बभूवागतविस्मयः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 14

ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्

पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्

Mahabharata

Shanti Parva, Adhyaya 308, Verse 15

अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम्

सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी

Mahabharata

Shanti Parva, Adhyaya 308, Verse 16

सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया

सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते

Mahabharata

Shanti Parva, Adhyaya 308, Verse 17

नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः

सा स्म संचोदयिष्यन्तं योगबन्धैर्बबन्ध ह

Mahabharata

Shanti Parva, Adhyaya 308, Verse 18

जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन्

प्रतिजग्राह भावेन भावमस्या नृपोत्तमः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 19

तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्

छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके

Mahabharata

Shanti Parva, Adhyaya 308, Verse 20

भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि

कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 21

श्रुते वयसि जातौ च सद्भावो नाधिगम्यते

एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे

Mahabharata

Shanti Parva, Adhyaya 308, Verse 22

छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः

स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे

Mahabharata

Shanti Parva, Adhyaya 308, Verse 23

यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा

यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु

Mahabharata

Shanti Parva, Adhyaya 308, Verse 24

पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः

भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 25

सांख्यज्ञाने तथा योगे महीपालविधौ तथा

त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 26

स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन्

वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 27

तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः

श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 28

सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्

मुक्तरागश्चराम्येकः पदे परमके स्थितः

Mahabharata

Shanti Parva, Adhyaya 308, Verse 29

वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः

ज्ञानादेव च वैराग्यं जायते येन मुच्यते

Mahabharata

Shanti Parva, Adhyaya 308, Verse 30

ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्

महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा