Shanti Parva, Adhyaya 307, Verse 1
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्
तपसा वा सुमहता कर्मणा वा श्रुतेन वा
रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च
वैदेहो जनको राजा महर्षिं वेदवित्तमम्
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम्
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ
तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा
एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित्
निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथंचन
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः
सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा
उह्यमानं निमज्जन्तमप्लवे कालसागरे
जरामृत्युमहाग्राहे न कश्चिदभिपद्यते
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित्
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
कालेन जाता जाता हि वायुनेवाभ्रसंचयाः
जरामृत्यू हि भूतानां खादितारौ वृकाविव
बलिनां दुर्बलानां च ह्रस्वानां महतामपि
एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च
कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत्
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च