Mahabharata

Shanti Parva, Adhyaya 306

Containing 108 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 306, Verse 1

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप

परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप

Mahabharata

Shanti Parva, Adhyaya 306, Verse 2

यथार्षेणेह विधिना चरतावमतेन ह

मयादित्यादवाप्तानि यजूंषि मिथिलाधिप

Mahabharata

Shanti Parva, Adhyaya 306, Verse 3

महता तपसा देवस्तपिष्ठः सेवितो मया

प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ

Mahabharata

Shanti Parva, Adhyaya 306, Verse 4

वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्

तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 5

ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः

यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्

Mahabharata

Shanti Parva, Adhyaya 306, Verse 6

ततो मां भगवानाह वितरिष्यामि ते द्विज

सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति

Mahabharata

Shanti Parva, Adhyaya 306, Verse 7

ततो मामाह भगवानास्यं स्वं विवृतं कुरु

विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती

Mahabharata

Shanti Parva, Adhyaya 306, Verse 8

ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ

अविज्ञानादमर्षाच्च भास्करस्य महात्मनः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 9

ततो विदह्यमानं मामुवाच भगवान्रविः

मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि

Mahabharata

Shanti Parva, Adhyaya 306, Verse 10

शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः

प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज

Mahabharata

Shanti Parva, Adhyaya 306, Verse 11

कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ

तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति

Mahabharata

Shanti Parva, Adhyaya 306, Verse 12

प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम्

एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत

Mahabharata

Shanti Parva, Adhyaya 306, Verse 13

ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ

गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्

Mahabharata

Shanti Parva, Adhyaya 306, Verse 14

ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता

ओंकारमादितः कृत्वा मम देवी सरस्वती

Mahabharata

Shanti Parva, Adhyaya 306, Verse 15

ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम्

तपतां च वरिष्ठाय निषण्णस्तत्परायणः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 16

ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम्

चक्रे सपरिशेषं च हर्षेण परमेण ह

Mahabharata

Shanti Parva, Adhyaya 306, Verse 17

कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम्

विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 18

ततः सशिष्येण मया सूर्येणेव गभस्तिभिः

व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 19

मिषतो देवलस्यापि ततोऽर्धं हृतवानहम्

स्ववेददक्षिणायाथ विमर्दे मातुलेन ह

Mahabharata

Shanti Parva, Adhyaya 306, Verse 20

सुमन्तुनाथ पैलेन तथा जैमिनिना च वै

पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 21

दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ

तथैव लोमहर्षाच्च पुराणमवधारितम्

Mahabharata

Shanti Parva, Adhyaya 306, Verse 22

बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम्

सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप

Mahabharata

Shanti Parva, Adhyaya 306, Verse 23

कर्तुं शतपथं वेदमपूर्वं कारितं च मे

यथाभिलषितं मार्गं तथा तच्चोपपादितम्

Mahabharata

Shanti Parva, Adhyaya 306, Verse 24

शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम्

सर्वे च शिष्याः शुचयो गताः परमहर्षिताः

Mahabharata

Shanti Parva, Adhyaya 306, Verse 25

शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः

प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम्

Mahabharata

Shanti Parva, Adhyaya 306, Verse 26

किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम्

चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत

Mahabharata

Shanti Parva, Adhyaya 306, Verse 27

विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः

चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव

पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा

Mahabharata

Shanti Parva, Adhyaya 306, Verse 28

विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च

ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा

सूर्यादः सूर्य इति च विद्याविद्ये तथैव च

Mahabharata

Shanti Parva, Adhyaya 306, Verse 29

वेद्यावेद्यं तथा राजन्नचलं चलमेव च

अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 306, Verse 30

अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः

पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत्