Shanti Parva, Adhyaya 305, Verse 1
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम्
जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात्
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात्
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम्
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च
ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम्
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात्
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः
संवत्सरवियोगस्य संभवेयुः शरीरिणः
योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा
प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम्
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम्
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक्
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः
देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक्
कर्णनासावनमनं दन्तदृष्टिविरागिता
संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम्
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप
मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम्
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान्
निशि चाहनि चात्मानं योजयेत्परमात्मनि
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत्
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम्
सर्वगन्धान्रसांश्चैव धारयेत समाहितः
तथा हि मृत्युं जयति तत्परेणान्तरात्मना
ससांख्यधारणं चैव विदित्वा मनुजर्षभ
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम्
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः