Mahabharata

Shanti Parva, Adhyaya 303

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 303, Verse 1

न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते

गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे

Mahabharata

Shanti Parva, Adhyaya 303, Verse 2

गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा

प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 3

गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते

उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 4

अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः

न मत्तः परमस्तीति नित्यमेवाभिमन्यते

Mahabharata

Shanti Parva, Adhyaya 303, Verse 5

अनेन कारणेनैतदव्यक्तं स्यादचेतनम्

नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा

Mahabharata

Shanti Parva, Adhyaya 303, Verse 6

यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः

यदात्मानं न जानीते तदाव्यक्तमिहोच्यते

Mahabharata

Shanti Parva, Adhyaya 303, Verse 7

कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते

कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते

Mahabharata

Shanti Parva, Adhyaya 303, Verse 8

कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता

कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते

Mahabharata

Shanti Parva, Adhyaya 303, Verse 9

गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान्

कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता

Mahabharata

Shanti Parva, Adhyaya 303, Verse 10

बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च

उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम्

Mahabharata

Shanti Parva, Adhyaya 303, Verse 11

मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः

अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम

Mahabharata

Shanti Parva, Adhyaya 303, Verse 12

अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा

सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 13

अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः

यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते

Mahabharata

Shanti Parva, Adhyaya 303, Verse 14

अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा

न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते

Mahabharata

Shanti Parva, Adhyaya 303, Verse 15

अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम्

न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 16

अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः

न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै

Mahabharata

Shanti Parva, Adhyaya 303, Verse 17

पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम्

न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्

Mahabharata

Shanti Parva, Adhyaya 303, Verse 18

एतेषां सह संवासं विवासं चैव नित्यशः

यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 19

ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम्

ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 20

सांख्यदर्शनमेतत्ते परिसंख्यातमुत्तमम्

एवं हि परिसंख्याय सांख्याः केवलतां गताः

Mahabharata

Shanti Parva, Adhyaya 303, Verse 21

ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्

अतः परं प्रवक्ष्यामि योगानामपि दर्शनम्