Shanti Parva, Adhyaya 302, Verse 1
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा
शतधा सहस्रधा चैव तथा शतसहस्रधा
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम्
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात्
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम्
द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च
अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात्
रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात्
पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम्
शाश्वतं चाव्ययं चैव अक्षरं चाभयं च यत्
ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम्
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम्
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप
स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि
अनादिनिधनावेतावुभावेव महामुने
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः
अस्तित्वं केवलत्वं च विनाभावं तथैव च
तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज
सांख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम
विदितं सर्वमेतत्ते पाणावामलकं यथा