Shanti Parva, Adhyaya 301, Verse 1
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम्
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम्
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम्
अधिभूतं तथानन्दो दैवतं च प्रजापतिः
हस्तावध्यात्ममित्याहुर्यथासांख्यनिदर्शनम्
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम्
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम्
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम्
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम्
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम्
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम्
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम्
रस एवाधिभूतं तु आपस्तत्राधिदैवतम्
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम्
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम्
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम्
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम्
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम्
अहंकारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम्
अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम्
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम्
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम्
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित्
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया
क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून्
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च
सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम्
शौचमार्जवमाचारमलौल्यं हृद्यसंभ्रमः
इष्टानिष्टवियोगानां कृतानामविकत्थनम्
दानेन चानुग्रहणमस्पृहार्थे परार्थता
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः
रजोगुणानां संघातो रूपमैश्वर्यविग्रहे
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम्
परापवादेषु रतिर्विवादानां च सेवनम्
अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम्
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा
भेदः परुषता चैव कामक्रोधौ मदस्तथा
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः
तामसानां तु संघातं प्रवक्ष्याम्युपधार्यताम्
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम्
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते
तमसो लक्षणानीह भक्षाणामभिरोचनम्
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता
गन्धवासो विहारेषु शयनेष्वासनेषु च
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः