Shanti Parva, Adhyaya 300, Verse 1
तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु
यथा संहरते जन्तून्ससर्ज च पुनः पुनः
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा
चोदयामास भगवानव्यक्तोऽहंकृतं नरम्
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत्
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा
जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप
एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम्
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः
जगद्दग्ध्वामितबलः केवलं जगतीं ततः
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः
ततः कालाग्निमासाद्य तदम्भो याति संक्षयम्
विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान्
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम्
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा
भक्षयामास बलवान्वायुरष्टात्मको बली
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना
आकाशमप्यतिनदन्मनो ग्रसति चारिकम्
मनो ग्रसति सर्वात्मा सोऽहंकारः प्रजापतिः
अहंकारं महानात्मा भूतभव्यभविष्यवित्
तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः
ततः समभवत्सर्वमक्षयाव्ययमव्रणम्
भूतभव्यमनुष्याणां स्रष्टारमनघं तथा
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्