Mahabharata

Shanti Parva, Adhyaya 299

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 299, Verse 1

अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे

पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते

Mahabharata

Shanti Parva, Adhyaya 299, Verse 2

रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप

सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम्

Mahabharata

Shanti Parva, Adhyaya 299, Verse 3

ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम्

सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम

Mahabharata

Shanti Parva, Adhyaya 299, Verse 4

संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः

संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः

Mahabharata

Shanti Parva, Adhyaya 299, Verse 5

द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते

तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः

Mahabharata

Shanti Parva, Adhyaya 299, Verse 6

एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः

दश कल्पसहस्राणि पादोनान्यहरुच्यते

रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः

Mahabharata

Shanti Parva, Adhyaya 299, Verse 7

सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा

चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः

ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम

Mahabharata

Shanti Parva, Adhyaya 299, Verse 8

देवाः पितॄणां च सुता देवैर्लोकाः समावृताः

चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम

Mahabharata

Shanti Parva, Adhyaya 299, Verse 9

परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

Mahabharata

Shanti Parva, Adhyaya 299, Verse 10

एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः

पञ्च कल्पसहस्राणि तावदेवाहरुच्यते

Mahabharata

Shanti Parva, Adhyaya 299, Verse 11

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु

यैराविष्टानि भूतानि अहन्यहनि पार्थिव

Mahabharata

Shanti Parva, Adhyaya 299, Verse 12

अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः

अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा

Mahabharata

Shanti Parva, Adhyaya 299, Verse 13

ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः

इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः

Mahabharata

Shanti Parva, Adhyaya 299, Verse 14

त्रीणि कल्पसहस्राणि एतेषामहरुच्यते

रात्रिरेतावती चैव मनसश्च नराधिप

Mahabharata

Shanti Parva, Adhyaya 299, Verse 15

मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः

न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति

Mahabharata

Shanti Parva, Adhyaya 299, Verse 16

चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा

मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति

तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते

Mahabharata

Shanti Parva, Adhyaya 299, Verse 17

मनस्युपरते राजन्निन्द्रियोपरमो भवेत्

न चेन्द्रियव्युपरमे मनस्युपरमो भवेत्

एवं मनःप्रधानानि इन्द्रियाणि विभावयेत्

Mahabharata

Shanti Parva, Adhyaya 299, Verse 18

इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते

एतद्विशन्ति भूतानि सर्वाणीह महायशाः