Shanti Parva, Adhyaya 298, Verse 1
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात्
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात्
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम्
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
याज्ञवल्क्यस्य संवादं जनकस्य च भारत
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम्
प्रभवं चाप्ययं चैव कालसंख्यां तथैव च
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम्
श्रूयतामवनीपाल यदेतदनुपृच्छसि
योगानां परमं ज्ञानं सांख्यानां च विशेषतः
न तवाविदितं किंचिन्मां तु जिज्ञासते भवान्
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः
अव्यक्तं च महांश्चैव तथाहंकार एव च
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः
महतश्चाप्यहंकार उत्पद्यति नराधिप
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम्
अहंकाराच्च संभूतं मनो भूतगुणात्मकम्
तृतीयः सर्ग इत्येष आहंकारिक उच्यते
मनसस्तु समुद्भूता महाभूता नराधिप
चतुर्थं सर्गमित्येतन्मानसं परिचक्षते
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम्
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम्
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप
अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः
एतानि नव सर्गाणि तत्त्वानि च नराधिप
चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात्
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः
महात्मभिरनुप्रोक्तां कालसंख्यां निबोध मे