Shanti Parva, Adhyaya 296, Verse 1
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप
आत्मानं बहुधा कृत्वा तान्येव च विचक्षते
एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम्
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम्
बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम्
बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम्
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत
पञ्चविंशं महात्मानं न चासावपि बुध्यते
षड्विंशं विमलं बुद्धमप्रमेयं सनातनम्
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते
दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम्
केवलं पञ्चविंशं च चतुर्विंशं न पश्यति
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः
बुध्यते च परां बुद्धिं विशुद्धाममलां यदा
षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत्
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम्
निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम्
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात्
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात्
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्
तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम्
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः
केवलेन बलेनैव समतां यात्यसंशयम्
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान्
एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात्
चेतनेन समेतस्य पञ्चविंशतिकस्य च
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते
चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात्
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ
प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात्
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः
मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः
एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम्
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात्
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः
परेण परधर्मा च भवत्येष समेत्य वै
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ
नियोगधर्मिणा चैव नियोगात्मा भवत्यपि
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत्
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान्
विमलात्मा च भवति समेत्य विमलात्मना
केवलात्मा तथा चैव केवलेन समेत्य वै
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते
एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम्
अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम्