Shanti Parva, Adhyaya 293, Verse 1
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्
सर्गकोटिसहस्राणि पतनान्तानि गच्छति
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्
सर्गकोटिसहस्राणि पतनान्तानि गच्छति
धाम्ना धामसहस्राणि मरणान्तानि गच्छति
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान्
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते
नित्यमेतद्विजानीहि सोमः षोडशमी कला
कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान्
धाम तस्योपयुञ्जन्ति भूय एव तु जायते
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा
एवं तां क्षपयित्वा हि जायते नृपसत्तम
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते
तदेवं षोडशकलं देहमव्यक्तसंज्ञकम्
ममायमिति मन्वानस्तत्रैव परिवर्तते
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात्
विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात्
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत्
तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत्
अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते
स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा
अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात्
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात्
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम्
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम्
एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते
अथ वानन्तरकृतं किंचिदेव निदर्शनम्
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्
अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम्
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान्
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः
न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति
यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति
यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान्
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः
सोपहासात्मतामेति यस्माच्चैवात्मवानपि
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते
याथातथ्येन सांख्येषु योगेषु च महात्मसु
यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते
एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्