Shanti Parva, Adhyaya 292, Verse 1
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते
देहाद्देहसहस्राणि तथा समभिपद्यते
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते
देहाद्देहसहस्राणि तथा समभिपद्यते
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात्
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च
मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते
कोशकारो यथात्मानं कीटः समनुरुन्धति
सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः
द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे
जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके
श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि
एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा
मण्डूकशायी च तथा वीरासनगतस्तथा
चीरधारणमाकाशे शयनं स्थानमेव च
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च
विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः
सिंहचर्मपरीधानः पट्टवासास्तथैव च
कीटकावसनश्चैव चीरवासास्तथैव च
वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्
भोजनानि विचित्राणि रत्नानि विविधानि च
एकवस्त्रान्तराशित्वमेककालिकभोजनम्
चतुर्थाष्टमकालश्च षष्ठकालिक एव च
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः
सप्तरात्रदशाहारो द्वादशाहार एव च
मासोपवासी मूलाशी फलाहारस्तथैव च
वायुभक्षोऽम्बुपिण्याकगोमयादन एव च
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च
शैवालभोजनश्चैव तथाचामेन वर्तयन्
वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च
चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि
उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च
विविधानि च जप्यानि विविधानि व्रतानि च
नियमान्सुविचित्रांश्च विविधानि तपांसि च
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च
दानं च विविधाकारं दीनान्धकृपणेष्वपि
अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान्
सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च
प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम्
यजनाध्ययने चैव यच्चान्यदपि किंचन
जन्ममृत्युविवादे च तथा विशसनेऽपि च
शुभाशुभमयं सर्वमेतदाहुः क्रियापथम्
प्रकृतिः कुरुते देवी महाप्रलयमेव च
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति
रश्मिजालमिवादित्यस्तत्कालेन नियच्छति
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान्
एवमेव विकुर्वाणः सर्गप्रलयकर्मणी
क्रियाक्रियापथे रक्तस्त्रिगुणस्त्रिगुणातिगः
क्रियाक्रियापथोपेतस्तथा तदिति मन्यते