Mahabharata

Shanti Parva, Adhyaya 291

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 291, Verse 1

किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः

किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 2

अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन

उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन

Mahabharata

Shanti Parva, Adhyaya 291, Verse 3

त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः

ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 4

शेषमल्पं दिनानां ते दक्षिणायनभास्करे

आवृत्ते भगवत्यर्के गन्तासि परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 5

त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम्

कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे

Mahabharata

Shanti Parva, Adhyaya 291, Verse 6

तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह

न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 7

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्

वसिष्ठस्य च संवादं करालजनकस्य च

Mahabharata

Shanti Parva, Adhyaya 291, Verse 8

वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्

पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 9

परमध्यात्मकुशलमध्यात्मगतिनिश्चयम्

मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 10

स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम्

पप्रच्छर्षिवरं राजा करालजनकः पुरा

Mahabharata

Shanti Parva, Adhyaya 291, Verse 11

भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम्

यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 12

यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत्

यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 13

श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्

यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ

Mahabharata

Shanti Parva, Adhyaya 291, Verse 14

युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम्

दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते

रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते

Mahabharata

Shanti Parva, Adhyaya 291, Verse 15

सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम्

मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः

अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 16

सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्

सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति

Mahabharata

Shanti Parva, Adhyaya 291, Verse 17

हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः

महानिति च योगेषु विरिञ्च इति चाप्युत

Mahabharata

Shanti Parva, Adhyaya 291, Verse 18

सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः

विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 19

वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना

तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 20

एष वै विक्रियापन्नः सृजत्यात्मानमात्मना

अहंकारं महातेजाः प्रजापतिमहंकृतम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 21

अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम्

महान्तं चाप्यहंकारमविद्यासर्गमेव च

Mahabharata

Shanti Parva, Adhyaya 291, Verse 22

अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः

विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 23

भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव

अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 24

वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च

Mahabharata

Shanti Parva, Adhyaya 291, Verse 25

एवं युगपदुत्पन्नं दशवर्गमसंशयम्

पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत्

Mahabharata

Shanti Parva, Adhyaya 291, Verse 26

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्

वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च

Mahabharata

Shanti Parva, Adhyaya 291, Verse 27

बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च

संभूतानीह युगपन्मनसा सह पार्थिव

Mahabharata

Shanti Parva, Adhyaya 291, Verse 28

एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते

यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः

Mahabharata

Shanti Parva, Adhyaya 291, Verse 29

एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु

वेदितव्यं नरश्रेष्ठ सदेवनरदानवे

Mahabharata

Shanti Parva, Adhyaya 291, Verse 30

सयक्षभूतगन्धर्वे सकिंनरमहोरगे

सचारणपिशाचे वै सदेवर्षिनिशाचरे