Mahabharata

Shanti Parva, Adhyaya 290

Containing 110 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 290, Verse 1

सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः

योगमार्गो यथान्यायं शिष्यायेह हितैषिणा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 2

सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते

त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते

Mahabharata

Shanti Parva, Adhyaya 290, Verse 3

शृणु मे त्वमिदं शुद्धं सांख्यानां विदितात्मनाम्

विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः

Mahabharata

Shanti Parva, Adhyaya 290, Verse 4

यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ

गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला

Mahabharata

Shanti Parva, Adhyaya 290, Verse 5

ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप

मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 6

राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा

विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 7

पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप

सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 8

राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा

आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च

Mahabharata

Shanti Parva, Adhyaya 290, Verse 9

देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान्

विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 10

आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः

सुखस्य च परं तत्त्वं विज्ञाय वदतां वर

Mahabharata

Shanti Parva, Adhyaya 290, Verse 11

प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम्

तिर्यक्च पततां दुःखं पततां नरके च यत्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 12

स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत

वेदवादे च ये दोषा गुणा ये चापि वैदिकाः

Mahabharata

Shanti Parva, Adhyaya 290, Verse 13

ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप

सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप

Mahabharata

Shanti Parva, Adhyaya 290, Verse 14

सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा

तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 15

षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा

बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 16

द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः

मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा

Mahabharata

Shanti Parva, Adhyaya 290, Verse 17

ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभैः

प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 18

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च

शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च

Mahabharata

Shanti Parva, Adhyaya 290, Verse 19

तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्

मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 20

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम्

अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः

Mahabharata

Shanti Parva, Adhyaya 290, Verse 21

तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम्

नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 22

बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम्

रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि

Mahabharata

Shanti Parva, Adhyaya 290, Verse 23

सक्तमात्मानमीशे च देवे नारायणे तथा

देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 24

ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः

स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते

Mahabharata

Shanti Parva, Adhyaya 290, Verse 25

मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते

द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्

Mahabharata

Shanti Parva, Adhyaya 290, Verse 26

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः

Mahabharata

Shanti Parva, Adhyaya 290, Verse 27

अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः

सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः

Mahabharata

Shanti Parva, Adhyaya 290, Verse 28

प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान्

सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतप

Mahabharata

Shanti Parva, Adhyaya 290, Verse 29

सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान्

ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप

Mahabharata

Shanti Parva, Adhyaya 290, Verse 30

महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव

गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम्