Mahabharata

Shanti Parva, Adhyaya 289

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 289, Verse 1

सांख्ये योगे च मे तात विशेषं वक्तुमर्हसि

तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम

Mahabharata

Shanti Parva, Adhyaya 289, Verse 2

सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः

वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै

Mahabharata

Shanti Parva, Adhyaya 289, Verse 3

अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन

वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 4

वदन्ति कारणं चेदं सांख्याः सम्यग्द्विजातयः

विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 5

ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा

एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 6

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्

शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 7

प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः

उभे चैते मते तत्त्वे मम तात युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 289, Verse 8

उभे चैते मते ज्ञाने नृपते शिष्टसंमते

अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 9

तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ

व्रतानां धारणं तुल्यं दर्शनं न समं तयोः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 10

यदि तुल्यं व्रतं शौचं दया चात्र पितामह

तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 289, Verse 11

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्

योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 12

यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम्

प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 13

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः

प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 14

लोभजानि तथा राजन्बन्धनानि बलान्विताः

छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 15

अबलाश्च मृगा राजन्वागुरासु तथापरे

विनश्यन्ति न संदेहस्तद्वद्योगबलादृते

Mahabharata

Shanti Parva, Adhyaya 289, Verse 16

बलहीनाश्च कौन्तेय यथा जालगता झषाः

अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 17

यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम

तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 18

कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप

अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 19

अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः

आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो

Mahabharata

Shanti Parva, Adhyaya 289, Verse 20

स एव च यदा राजन्वह्निर्जातबलः पुनः

समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि

Mahabharata

Shanti Parva, Adhyaya 289, Verse 21

तद्वज्जातबलो योगी दीप्ततेजा महाबलः

अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 22

दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः

बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 23

तदेव च यथा स्रोतो विष्टम्भयति वारणः

तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 24

विशन्ति चावशाः पार्थ योगा योगबलान्विताः

प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 25

न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः

ईशते नृपते सर्वे योगस्यामिततेजसः

Mahabharata

Shanti Parva, Adhyaya 289, Verse 26

आत्मनां च सहस्राणि बहूनि भरतर्षभ

योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 27

प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत्

संक्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव

Mahabharata

Shanti Parva, Adhyaya 289, Verse 28

बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव

विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम्

Mahabharata

Shanti Parva, Adhyaya 289, Verse 29

बलानि योगे प्रोक्तानि मयैतानि विशां पते

निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव

Mahabharata

Shanti Parva, Adhyaya 289, Verse 30

आत्मनश्च समाधाने धारणां प्रति चाभिभो

निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ